|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.191. अध्यायः 191
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
वायुना धर्मरहस्यकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[वायुरुवाच।
किञ्चिद्धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम्।
सरहस्याश्च ये दोषास्ताञ्शृणुध्वं समाहिताः॥ 13-191-1(88977)
अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम्।
दीपकश्चापि कर्तव्यः पितॄणां सतिलोदकः॥ 13-191-2(88978)
एतेन विधिना मर्त्यः श्रद्दधानः समाहितः।
चतुरो वार्षिकान्मासान्यो ददाति तिलोदकाम्॥ 13-191-3(88979)
भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे।
पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम्॥ 13-191-4(88980)
इदं चैवापरं गुह्यमप्रशस्तं निबोधत।
अग्नेस्तु वृषलो नेता हविर्मूढाश्च योषितः॥ 13-191-5(88981)
मन्यते धर्म एवेति च चाधर्मेणि लिप्यते।
अग्नयस्तस्य कुप्यन्ति शूद्रयोनिं स गच्छति॥ 13-191-6(88982)
पितरश्च न तुष्यन्ति सहदेवैर्विशेषतः।
प्रायश्चित्तं तु यत्तत्र ब्रुवतस्तन्निबोध मे।
यत्कृत्वा तु नरः सम्यक्सुखी भवति विज्वरः॥ 13-191-7(88983)
गवां मूत्रपुरीषेणि पयसा च घृतेन च।
अग्निकार्यं त्र्यहं कुर्यान्निराहारः समाहितः॥ 13-191-8(88984)
ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः।
हृष्यन्ति पितरश्चास्य श्राद्धकाल उपस्थिते॥ 13-191-9(88985)
एष ह्यधर्मो धर्मश्च सरहस्यः प्रकीर्तितः।
मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावह॥] ॥ 13-191-10(88986)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकनवत्यधिकशततमोऽध्यायः॥ 191 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-191-5 नेता देशान्तरप्रापको यदि शूद्रः स्यात् तर्हि तस्य दोषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|